IIश्रीगणेशस्तोत्रII
श्रीगणेशाय नमः नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये II१II
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् II२ II
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् II३ II
नवमं भालचन्द्रं च दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम् II४II
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः II५II
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् II६II
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयः II७II
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् .तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः II८II
II श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णं II
Audio link:http://www.youtube.com/watch?v=BaQ7nttuobk
No comments:
Post a Comment